|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.188. अध्यायः 188
Mahabharata - Udyoga Parva - Chapter Topics
पुत्रार्थं तपस्यते द्रुपदाय महादेवेन स्त्री भूत्वा पुमान्भविष्यतीति वरदानम् ॥ 1 ॥
द्रुपदभार्यया स्त्र्यपत्यजननेऽपि तस्य पुंस्त्वख्यापनम् ॥ 2 ॥
द्रुपदेन तस्य स्त्रीत्वं प्रच्छाद्य पुंवज्जातकर्मादिकरणपूर्वकं शिखण्डीति नामकरणम् ॥ 3 ॥

Mahabharata - Udyoga Parva - Chapter Text
दुर्योधन उवाच। 5-188-0x(3924)(38348)
कथं शिखण्डी गाङ्गेय कन्यां भूत्वा पुरा तदा।
पुरुषोऽभूद्युधिश्रेष्ठ तन्मे ब्रूहि पितामह ॥ 5-188-1(38349)
भीष्म उवाच। 5-188-2x(3925)
भार्या तु तस्य राजेन्द्र द्रुपदस्य महीपतेः।
महिषी दयिता ह्यासीदपुत्रा च विशांपते ॥ 5-188-2(38350)
एतस्मिन्नेव काले तु द्रुपदो वै महीपतिः।
अपत्यार्थे महाराज तोषयामास शङ्करम् ॥ 5-188-3(38351)
अस्माद्वधार्थं निश्चित्य तपो घोरं समास्थितः।
ऋते कन्यां महादेव पुत्रो मेस्यादिति ब्रुवन् ॥ 5-188-4(38352)
भगवन्पुत्रमिच्छामि भीष्मं प्रतिचिकीर्षया ।
इत्युक्तो देवदेवेन स्त्रीपुमांस्ते भविष्यति ॥ 5-188-5(38353)
निवर्तस्व महीपाल नैतञ्जात्वन्यथा भवेत् ।
स तु गत्वा च नगरं भार्यामिदमुवाच ह ॥ 5-188-6(38354)
कृतो यत्नो महादेवस्तपसाऽऽराधितो मया ।
कन्या भूत्वा पुमान्भावी इति चोक्तोस्मि शंभुना ॥ 5-188-7(38355)
पुनः पुनर्याच्यमानो दिष्टमित्यब्रवीच्छिवः ।
नतदन्यच्च भविता भवितव्यं हि तत्तथा ॥ 5-188-8(38356)
ततः सा नियता भूत्वा ऋतुकाले मनस्विनी ।
पत्नी द्रुपदराजस्य द्रुपदं प्रविवेश ह ॥ 5-188-9(38357)
लेभे गर्भं यथाकालं विधिदृष्टेन कर्मणा ।
पार्षतस्य महीपाल यथा मां नारदोऽब्रवीत् ॥ 5-188-10(38358)
ततो दधार सा देवी गर्भं राजीवलोचना ।
तां स राजा प्रियां भार्यां द्रुपदः कुरुनन्दन ॥ 5-188-11(38359)
पुत्रस्नेहान्महाबाहुः मुखं पर्यचरत्तदा ।
सर्वानभिप्रायकृतान्भार्याऽलभत कौरव ॥ 5-188-12(38360)
अपुत्रस्य सतो राज्ञो द्रुपदस्य महीपतेः ।
यथाकालं तु सा देवी महिषी द्रुपदस्य ह ॥ 5-188-13(38361)
कन्यां प्रवररूपां तु प्राजायत नराधिप ।
अपुत्रस्य तु राज्ञः सा द्रुपदस्य मनस्विनी ॥ 5-188-14(38362)
ख्यापयामास राजेन्द्र पुत्रो ह्येष ममेति वै।
ततः स राजा द्रुपद प्रच्छन्नाया नराधिप ॥ 5-188-15(38363)
पुत्रवत्पुत्रकार्याणि सर्वाणि समकारयत् ।
रक्षणं चैव मन्त्रस्य महिषी द्रुपदस्य सा॥ 5-188-16(38364)
चकार सर्वयत्नेन ब्रुवणा पुत्र इत्युत ।
न च तां वेदक नगरे कश्चिदन्यत्र पार्षतात् ॥ 5-188-17(38365)
श्रद्दधानो हि तद्वाक्यं देवस्याच्युततेजसः।
छादयामास तां कन्यां पुमानिति च सोब्रवीत् ॥ 5-188-18(38366)
जातकर्माणि सर्वाणि कारयामास पार्थिवः।
पुंवद्विधानयुक्तानि शिखण्डीति च तां विदुः ॥ 5-188-19(38367)
अहमेकस्तु चारेण वचनान्नारदस्य च।
ज्ञातवान्देववाक्येन अम्बायास्तपसा तथा ॥ ॥ 5-188-20(38368)
इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि अष्टाशीत्यधिकशततमोऽध्यायः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|